Sunday, April 27, 2014

अर्धनारीश्वरस्तोत्रम

चांपेयगौरार्ध शरीरकायै कर्पूरगौरार्ध शरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥

कस्तूरिका कुंकुमचर्चितायै चितारजःपुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥

झणत्क्वणत्कंकण नूपुरायै पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥

विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।
समेशणायै विषमेशणाय नमः शिवायै च नमः शिवाय ॥

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ॥

अंभोधरश्यामलकुंतलायै तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे नमह शिवायै च नमः शिवाय ॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥

एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं भूयात सदा तस्य समस्तसिद्दिः ॥

। इति श्री शङ्कर भगवत्पाद विरचितम अर्धनारीश्वरस्तोत्रम ।

No comments:

Post a Comment